________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १२१ ॥
मुच्छिममणुस्साण य । तिविधा जोणी पं० तं० – संबुडा वियडा संवुडवियडा । तिविहा जोणी पं० तं० — कुम्मुन्ना संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिविहा उत्तमपुरिसा गब्भं वकमंति, तं० – अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववजंति नो चेव णं निष्फज्जंति, वंसीपत्तिता णं जोणी पिहज्जणस्स, वंसीपतिताए णं जोणीए बहवे पिहज्जणे गब्भं वक्कमंति ( सू० १४० )
कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम् - एकाग्रता, तच्च मनःप्रभृतिसम्बन्धिभेदात्रिधेति, तत्र मनसः प्रणिधानं मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्ड के सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावादित्यत एवोक्तम् —' एवं पञ्चदिये 'त्यादीति । प्रणिधानं हि शुभाशुभभेदमथ शुभमाह - 'तिविहे' इत्यादि सामान्यसूत्रं १, विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह - 'संजये 'त्यादि २, (दुष्टं) प्रणिधानं दुष्प्रणिधानम् - अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३ । जीव पर्यायाधिकारात् 'तिविहेत्यादिना गन्भं वक्कमंती' त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह, तत्र युवन्ति - तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः - जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, ' एवं 'ति यथा | सामान्यतस्त्रिविधा तथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां तेजसामुष्णयोनित्वात्, पञ्चे
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः १
सू० १४०
॥ १२१ ॥
www.jainelibrary.org