SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ |न्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्च्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आह–“सीओसिणजोणीया सवे देवा य गम्भवकंती । उसिणा य तेउकाए दुह णिरए तिविह सेसाणं ॥१॥” इति ॥ अन्यथा योनित्रैविध्यमाह-तिविहे'त्यादि कण्ठ्यं, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्तम्-"अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसा य गब्भवसही तिविहा जोणी य सेसाणं ॥१॥” इति, पुनरन्यथा तामाह-'तिविहे'त्यादि, संवृता-सङ्कटा घटिकालयवत् विवृता-विपरीता संवृतविवृता तूभयरूपेति, एतद्विभागोऽयं –“एगिदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गन्भमि ॥१॥त्ति" 'कुम्मुन्नयेत्यादि कण्ठ्यं, नवरं कूर्मः-कच्छपः तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्खावर्त्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, 'गन्भं वक्कमंति'त्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरपत्रैविध्यमिति, 'बहवें'इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तग्रहणप्रायोग्याः, किं?—'व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रामन्ति' विनश्यन्ति, एतदेव व्याख्याति-विउक्कमंती'ति, कोऽर्थः ?-च्यवन्ते, 'वक्कमंति'त्ति, किमुक्तं भवति ?-उत्पद्यन्ते इति, 'पिहजणस्स'त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह १शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्क्रान्तिकाः। उष्णा च तेजस्काये द्विधा नरके त्रिविधा शेषाणाम् ॥१॥२ अचित्तैव योनि रयिकाणां तथैव देवानाम्।। मिश्रा च गर्भवसतीनां त्रिविधा योनिश्च शेषाणाम् ॥ १॥ एकेन्द्रियनैरयिकाः संवृतयोनयो भवन्ति देवाश्च । विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy