________________
णमिदम् — 'दो धेयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा । दस खण्डगुलपलाई एस रसालू णिवइजोग्गो ॥१॥ त्ति, पानं-सुरादि, पानीयं - जलं, पानकं - द्राक्षापानकादि, शाकः -तक्रसिद्ध इति, यावान् जीवो यावज्जीवं - यावत्प्राणधारणं पृष्ठेस्कन्धे अवतंस इवावतंसः - शेखरस्तस्य करणमवतंसिका पृष्ठ्य वर्तसिका तथा पृष्ठ्य वर्तसिक्या परिवहेत् पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहन परिवहनेन वा तस्य - अम्बापितुर्दुष्प्रतीकारम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, आह च - " कयंउवयारो जो होइ सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे हवंति ते सुंदरा सुयणा ॥ १ ॥” इति, 'अहे णं से'त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम् - अम्बापितरं धर्मे ' स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह- ' आघवत्ता' धर्ममाख्याय 'प्रज्ञाप्य' बोधयित्वा 'प्ररूप्य' प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यो धर्म्मः, प्रज्ञाप्य विशेषतो यथाऽसाव हिंसादिलक्षणः, प्र रूप्य प्रभेदतो यथा (अष्टादश) शीलाङ्गसहस्ररूप इति, शीलार्थतृन्नन्तानि वैतानीति, 'तेणामेव' त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना 'तस्य' प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडियारं 'ति सुखेन प्रतिक्रियते-प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महो पकारत्वाद्, आह च - "संमत्तदायगाणं दुष्पडियारं भवेसु बहुसुं । सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं ॥ १ ॥”
१ द्वे घृतपले मधुपलं दनोऽर्धाढकं मरीचा विंशतिः । दश गुडखण्डयोः पलानि एष रसालुर्नृपतियोग्यः ॥ १ ॥ २ कृतोपकारो यो भवति सज्जनो भवति को गुणस्तस्य ? । उपकारबाह्या ये भवन्ति ते सुन्दराः सज्जनाः ॥ १॥ ३ सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुष्वपि । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org