SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः AAMALS यस्य ३ शतेन ना ३ स्थानकाध्ययने उद्देशः१ सू०१३५ लनं कृत्वा त्रिभ्याम्, ' ॥११८॥ कानाम् ओषधिक्काथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम् , एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम् , 'अन्भंगेत्ता' अभ्यङ्गं कृत्वा 'गन्धट्टएणं'ति गन्धाकेन-गन्धद्रव्यक्षोदेन 'उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकः 'मजयित्वा' स्ना(स्न)पयित्वा मनोज्ञं-कलमौदनादि 'स्थाली' पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न तथाविधं स्यादितीदं विशेषणमिति 'शुद्ध' भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदाः-सूओ १ दणो २ जवन्नं ३ तिन्नि य मं|साई ६ गोरसो ७ जूसो८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ सागो १३ ॥१॥होइ रसालू |य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥' मांसत्रयं जलजादिसत्कं जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोक-11 प्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितक-जीरकादि शाको वस्तुलादिभर्जिका, रसालू-मजिका, तल्लक्ष १सूप ओदनो यवान्नं त्रीणि च मांसानि गोरसो मुद्गादिरसो । भक्ष्याणि गुलपर्पटिका मूलफलानि जीरकादि वत्थुलादिः ॥१॥ भवति मज्जिका च तथा ठा सुरादि कर्कटिजलं सौवीरादि चैव । अष्टादशः शाको निरुपहतो लौकिकः पिण्डः ॥१॥ ॥११८॥ dain Education International For Personal & Private Use Only nama.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy