________________
नऊ
तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति २, केति तहारूवरस समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उवबन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिकंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ भट्टं समाणं भुज्जोवि केवलिपन्नत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ ( सू० १३५ )
'ति' त्रयाणां दुःखेन - कृच्छ्रेण प्रतिक्रियते - कृतोपकारेण पुंसा प्रत्युपक्रियत इति खल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्त्तुमशक्यमितियावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः, अम्बया - मात्रा सह पिता - जनकः अम्बापिता तस्येत्येकं स्थानं, जनकत्वेनैकत्वविवक्षणात्, तथा 'भहिस्स' त्ति भर्त्तुः - पोषकस्य स्वामिन इत्यर्थ इति द्वितीयं धर्म्मदाता आचार्यो धर्माचार्यः तस्येति तृतीयम् आह च - " दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ १ ॥” इति तत्र जनकदुष्प्रतिकार्यतामाह - 'संपाओ'त्ति प्रातः-प्रभातं तेन समं सम्प्रातः सम्प्रातरपि च- प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, 'कश्चिदिति कुलीन एव, न तु सर्वोऽपि 'पुरुषों' मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात् शतं पा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org