SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ A BARSAARRUAR सिद्धिसौधशिखरारोहणं चेत्यहन्तः, उक्तं च-"अरिहंति वंदणनमसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥१॥"त्ति, तेषु 'व्यवच्छिद्यमानेषु' निर्वाणं गच्छत्सु, तथाऽर्हप्रज्ञप्ते धर्मे व्यवच्छिद्यमाने तीर्थ-17 व्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वहंदादिषु । निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत्किमद्भुतमिति ? । लोकोद्योतो लोकानुभावा-13 न्मनुष्यलोके देवागमाद्वा, 'नाणुप्पायमहिमामु' केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकार देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तं, तत्सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि, देवसन्निपातो-भुवि तत्समवतारो, देवोत्कलिका-तत्समवायविशेषः, "एवं'मिति त्रिभिरेव स्थानैः, 'देवकहकहे'त्ति देवकृतः प्रमोदकलकलस्त्रिभिरेवेति, 'हब्बन्ति शीघ्र 'सामाणिय'त्ति इन्द्रसमानर्द्धयः, 'तायत्तीसगत्ति महत्तरकल्पाः पूज्याः 'लोकपाला' सोमादयो दिग्नियुक्तकाः 'अग्रमहिष्यः' प्रधानभार्याः 'परिषत् परिवारस्तत्रोपपन्नका ये ते तथा 'अनीकाधिपतयों' गजादिसैन्यप्रधाना ऐरावतादयः 'आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्सं लोयं हव्बमागच्छन्तीति प्रतिपदं सम्बन्धनीयं १५॥ मनुष्यलोकागमने देवानां यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह-तिहिं इत्यादि कण्ठ्यं, नवरं 'अन्भुद्विज'त्ति सिंहासना १ वन्दननमनान्यहति पूजासत्कारावर्हन्ति सिद्धिगमनं चाहन्ति तेनाईन्त उच्यन्ते ॥१॥ C AMARCASCRECRUAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy