________________
'तिविहे'त्यादि नवसूत्री सुगमा, नवरं 'खहंति प्राकृतत्वेन खम्-आकाशमिति, कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिःभरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः॥ विशेष(तः)त्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह-'तिविहे'त्यादि, कण्ठ्यम् ॥ ख्यादिपरिणतिश्च जीवानां लेश्यावशतो भव[ती]ति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह
नेरइयाणं तओ लेसाओ पं० सं०-कण्हलेसा नीललेसा काउलेसा १, असुरकुमाराणं तओ लेसाओ संकिलिहाओ पं०, तं०-कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११, एवं पुढविकाइयाणं १२ आउवणस्सतिकाइयाणवि १३-१४ तेउकाइयाणं १५ वाउकाइयाणं १६ बेंदियाणं १७ तेंदियाणं १८ चउरिदिआणवि १९ तओ लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पं० तं०-कण्हलेसा नीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिहाओ पं० त० तेउलेसा पम्हलेसा सुक्कलेसा २१, एवं मणुस्साणवि २२, वाणमंतराणं जहा असुरकुमाराणं २३, वेमाणियाणं तओ लेस्साओ पं० २०–तेउलेसा पम्हलेसा सुकलेसा २४ ।।
(सू० १३२) 'नेरइयाण'मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं 'नेरइयाणं तओ लेस्साओ'त्ति एतासामेव तिसृणां सद्भावादविशेपणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सङ्क्लिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु
dain Education International
For Personal & Private Use Only
www.jainelibrary.org