________________
व्यमापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, यतः-“अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः॥१॥” तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्-"एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥१॥" तथा "भण्णइ जिणपूयाए कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥१॥ असदारंभपवत्ता जंच गिही तेण तेसिं विनेया। तन्निवित्तिफलच्चिय एसा परिभावणीयमिदं ॥२॥” इति, दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तम्-“संविग्गभावियाणं लोद्धयदिठंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धञ्छं ॥१॥” इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम्,-"संथरणमि असुद्धं दोण्हवि गेण्हन्तदेंतयाणऽहियं । आउरदिहतेणं तं चेव हितं असंथरणे ॥१॥” इति, तथा “णायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुयं” इत्यादि, क्वचित् “पाणे अतिवायित्ता मुसं वयित्ते"त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्या
१ भण्यते जिनपूजायां यद्यपि कथंचित्कायवधो भवति तथापि सा परिशुद्धा गृहिणां कूपोदाहरणदृष्टान्तात् ॥१॥ असदारंभप्रवृत्ता यच्च गृहिणस्तेन तेषां | विज्ञेया तन्निवृत्तिफलैव एषा परिभावनीयमेतत् ॥२॥ २ संविमभाविताना लुब्धकदृष्टान्तभावितानां च क्षेत्रकाली भावं च मुक्त्वा शुद्धमुन्छ कथयन्ति (देशयन्ति) |॥१॥ ३ संस्तरणे द्वयोरपि गृहणद्ददतोरहितमशुद्धं आतुरदृष्टान्तेन तदेवासंस्तरणे हितं । (देशादिभेदात् ) ॥१॥ ४ न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारकमयुतं (दान).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org