SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ३ स्थानकाध्ययने उद्देशः१ सू० १२५ श्रीस्थाना- काप्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात् , तथा| गसूत्र- 'समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडि- वृत्तिः लाभेमाणस्स किं कज्जइ?, गोयमा!, बहुतरिया से निजरा कजइ, अप्पतराए से पावे कम्मे कजइत्ति भगवतीवच॥१०९॥ नश्रवणादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवनहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाच्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात् , प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम्-"समणोवासयस्स णं भंते ! तहारूवं असंजतअविरयअपडिहयअपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा अणेसणिज्जेण वा असण ४ पडिलाभमाणस्स किं कज्जइ?, गोयमा?, एगंतसो पावेकम्मे कज्जइ, नो से काइ निजरा कज्जइ"त्ति, यच्च पापकर्मण एव कारणं तेदल्पायुष्टाया अपि कारणमिति, नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्त १ युज्यते. २ श्रमणोपासकेन भदन्त । तथारूपं धमणं वा माहनं वाणासुकेनानेषणीयेनाशनपानखादिमखादिमेन प्रतिलम्भयता किं क्रियते?, गौतम IIN बहुतरा तेन निर्जरा क्रियतेऽल्पतरं तेन पापकर्म क्रियते ३ श्रमणोपासकेन भदन्त ! तथारूपं असंयताविरताप्रतिहताप्रत्याख्यातपापकर्माण प्रासुकेन वाऽप्रासुकेन वा एषणीयेनानेषणीयेन वा अशनादिना प्रविलम्भयता किं क्रियते?, गौतम ! एकान्ततः पापकर्म क्रियते न तेन काचिन्निर्जरा क्रियते ॥ ४ बहुनिर्जरासाधनत्वेऽपि | अल्पस्य. ५ सरागसंयमनिय॑दीर्घशुभायुष्टापेक्षया. ६ अप्रासुकादिदानं. ॥१०९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy