________________
अश्यते-भुज्यते इत्यशनं च-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निवृत्तं खादनार्थ तस्य निर्व @मानत्वादिति खादिम च-भक्तौदि स्वादनं स्वादः तेन निवृत्तं स्वादिमं दन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र-"असणं ओदणसत्तुगमुग्गजगाराइ खजगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥१॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सब्बो कक्कडगजलाइयं च तहा ॥ २॥ भत्तोसं दंताई खजूरं नालिकेरदक्खाई। कक्कडिगंबगफणसादि बहुविहं खाइमं नेयं ॥३॥ दंतवणं तंबोलं चित्तं अजगकुहेडगाई य । महपिप्पलि-15 मंठादी अणेगहा साइम होइ॥४॥” इति, प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति. ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, 'इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानः जीवा अल्पायुष्टया कर्म प्रकवन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् , अतः कथमभिधीयते-सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org