________________
प्रयुड़े यं पर्यायं स योगो-वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च-"मणसा वयसा कारण दूवावि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ॥ १ ॥ तेओजोगेण जहां रत्तत्ताई
घडस्स परिणामो । जीवकरणप्पओए विरियमवि तहप्पपरिणामो ॥ २ ॥” इति, मनसा करणेन युक्तस्य जीवस्य योगो-वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः-सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः-औदारिको १ दारिकमिश्र २ वैक्रिय ३ विक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग ७ भेदादिति, तत्रौदारिकादयः शुद्धाः सुबोधाः, औदारिकमिश्रस्तु औदारिक एवापरिपूर्णो | | मिश्र उच्यते, यथा गुडमिनं दधि न गुडतया नापि दधितया व्यपदिश्यते तत्ताभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रिया
हारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवम्-औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याहप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन औदारिकशरीरिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारि
१मनसा वचसा कायेन वापि युक्तस्य वीर्यपरिणामः जीवस्यात्मीयः स योगसंज्ञो जिनाख्यातः॥१॥ तेजोयोगेन यथा रक्तवादिर्घटस्य परिणाम जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः ॥ २ ॥
**SAAAAAAAAAAAAAAAA
AS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org