SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ १०६ ॥ । क्लीवता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं १ खरता २ दार्व्य ३, शौण्डीर्य ४ श्मश्रु ५ धृष्टता ६ । स्त्रीकामिते ७ ति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥" तथाऽन्यत्राप्युक्तम् — “स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥ १ ॥" इत्यादि ॥ एते च योगवन्तो भवन्तीति योगप्ररूपणायाहतिविहे जोगे पं० तं० मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियवज्जाणं जाव वेमाणियाणं, तिविहे पओगे पं० तं०—मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तथा पओगोऽवि, तिविहे करणे पं०, तं०—मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवज्जं जाव वेमाणियाणं, तिविहे करणे पं० तं० - आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव वेमाणियाणं ( सू० १२४ ) 'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थ लब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः, आह च - " जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा। सत्ती सामत्थंति य जोगस्स हवंति पजाया ॥ १ ॥” इति, स च द्विधा - सकरणोऽकरणश्च तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेयदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'केम्मं जोगनिमित्तं बज्झइ'त्ति वचनात् युङ्क्ते१ योगो वीर्य स्थान उत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमिति च योगस्य भवन्ति पर्यायाः ॥ १ ॥ २ कर्म योगनिमित्तं बध्यते Jain Education International For Personal & Private Use Only ३ स्थान काध्ययने उद्देशः १ सू० १२४ ॥ १०६ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy