________________
एतदक्तं भवति-इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृत-12 घटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रकारणत्वात् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः, तथा भव्यो-योग्य इन्द्रशब्दार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं भव्यशरीरं तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो-भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत् , उक्तञ्च मङ्गलमधिकृत्य-"मंगलपयत्थजाणयदेहो भब्वस्स वा संजीवोवि।णोआगमओ दव्वं आगमरहिओत्ति जं भणितं ॥१॥” इति, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्र कार्येष्वव्यापृतः, आगमतोअनुपयुक्तद्रव्येन्द्रवत, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपयायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, भव्यशरीर-16 द्रव्येन्द्रवत् , स चावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको-योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात्परतः आयुष्कबन्धाभावात् , तथा अभिमुखे-संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहर्त्तानन्तरभावितया नामगोत्रे इन्द्रसबन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरा दि
१ मंगलपदार्थज्ञातृदेहो भव्यस्य वा सजीवोऽपि (देहः) । नोआगमतो द्रव्यं आगमरहित इति यद्भणितं ॥१॥ २ सजीवोत्ति.
dain Education International
For Personal & Private Use Only
www.janelibrary.org