SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ३ स्थानकाध्ययने उद्देशः१ सू०११९ श्रीस्थाना-तणमिदम्-"यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालञ्च ॥१॥" ङ्गसूत्र- इति, तथा, "लेप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा । होइ असम्भावे पुण हत्थित्ति निरागिई अक्खो ॥१॥" वृत्तिः | इति, तथा द्रवति-गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायोर्वा-सत्ताया अवयवो विकारो वा वर्णादिगु णानां वा द्रावः-समूह इति द्रव्यं, तच्च भूतभावं भाविभावं चेति, आह च-"देवए १ दुयए २ दोरवयवो विगारो ३ ॥१०२॥ गुणाण संदावो ४। दव्वं भव्वं भावस्स भूयभावं च जं जोगं ॥१॥" ति, इति । तथा “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ १॥” तथा 'अनुपयोगो द्रव्यमप्रधानं चेति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमतः-खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः 'अनुपयोगो द्रव्य'मिति वचनात् , |अयमेवार्थों मङ्गलमाश्रित्य भाष्य उक्तः, तथाहि-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिजुतोवि णोवउत्तोत्ति तो दव्वं ॥१॥” इति, तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा-ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरं ज्ञशरीरं ज्ञशरीरमेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः, १ लेप्यहस्ती हस्तीति एषा सद्भाविका स्थापना भवेत् । भवत्यसद्भावे पुनर्हस्तीति निराकृतिरक्षः॥१॥ २ द्रवति द्रूयते वा द्रोः (सत्तायाः) अवयवो विकारो वा गुणानां संद्रावो (भाजन) तद्रव्यं भव्यभावस्य भूतभावस्य च यद् योग्यमिति ॥ १॥ ३ आगमतोऽनुपयुक्तो मंगलशब्दानुवासित (आत्मा) वक्ता । तज्ज्ञानलसब्धियुक्तोऽप्यनुपयुक्त इति ततो द्रव्यं ॥१॥ ६ ॥१०२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy