________________
द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्का अस्याप्यध्ययनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवंसम्बन्धस्यैतत्प्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतप्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य
तओ इंदा पण्णत्ता तं०–णामिदे ठवणिदे दविदे, तओ इंदा पं० २०–णाणिदे दंसणिदे चरित्तिदे, तओ इंदा पं० तं०-देविंदे असुरिंदे मणुस्सिदे (सू० ११९) 'तओ इंदे'त्यादेाख्या, सा च सुकरैव, नवरमिन्दनाद्-ऐश्वर्याद् इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्-"यद्वस्तुनोऽभिधानं | स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयश्च नाम यादृच्छिकं च तथा ॥१॥" इति, अयमर्थः यदस्त्वित्यादिना य-1* थार्थमिन्द्र इत्याद्युक्तं, स्थितमित्यादिना त्वयथार्थ गोपालादाविन्द्रेत्यादि, यादृच्छिकमनर्थकं डित्थादीति ३, अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति । तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना-लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org