________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १०३ ॥
भावेन्द्रापेक्षया अप्रधानत्वाच्छक्रादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति भावेन्द्रस्त्विह त्रिस्थानकामुरोधान्नोक्तः, तलक्षणं चेदम्- भावम् - इन्दनक्रियानुभवन लक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः स चासाविन्द्रश्चेति भावेन्द्रः, यदाह - "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदि| हेन्दनादिक्रियानुभवात् ॥ १ ॥ " स च द्विधा - आगमतो नोआगमतश्च तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः, कथमिन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते ?, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेत्, न, अभिप्रायापरिज्ञानात् संवित् ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्र 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं ?, घटः, किमयमाह ?, घटशब्दं किमस्य ज्ञानं ?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तलक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, नोआगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव च विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वात् नोशब्दस्य नोआगंमत इत्याख्यायत इति । ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं व
Jain Education International
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः १
सू० ११९
॥ १०३ ॥
www.jainelibrary.org