SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजासूत्रवृत्तिः RSS SCAM २ स्थानकाध्ययने उद्देशः ४ सू०११३ स्वरूपं सूत्रत्रयेणाह–'उत्तरे'त्यादि कण्ठ्यम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह-'अंतो 'मि- त्यादि, अन्तः-मध्ये 'मनुष्यक्षेत्रस्य' मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पश्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेष कण्ठ्यमिति । मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह-'दो चक्कवट्टी'त्यादि, द्वौ चक्रेण-रत्नभूतप्रहरणविशेषेण वर्तितुं शीलं ययोस्तौ चक्रवर्तिनौ, 'कामभोग'त्ति कामौ च-शब्दरूपे भोगाश्चगन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति कामा मनोज्ञा इत्यर्थः ते च ते भुज्यन्त इति भोगाश्च-शब्दादय इति कामभोगा न परित्यक्तास्ते यकाभ्यां तौ तथा 'कालमासे'त्ति कालस्य-मरणस्य मासः उपलक्षणं चैतत्यक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसर इति भावः, 'कालं मरणं कृत्वा अधःसप्तम्यां पृथिव्यां, तमस्तमायामित्यर्थः अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमाना रत्नप्रभाऽपि स्यादित्यधोग्रहणं, अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोसन्नौ, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति । नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह असुरिंदवजियाणं भवणवासीणं देवाणं देसूणाई दो पलिओवमाई ठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाई दो सागरोवमाई ठिती पन्नत्ता, सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाई दो सागरोवमाई ठिती पन्नत्ता । (सू० ११३) दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, तं०–सोहम्मे चेव ईसाणे चेव । (सू० ११४) दोसु कप्पेसु देवा तेउ ॥९९॥ Jain Education For Personal & Private Use Only Margainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy