________________
श्रीस्थानानसूत्रवृत्तिः
१ स्थानाध्ययने गुरुकुलवासःसू०१
थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥गीयावासो रती धम्मे, अणाययणवजणं । निग्गहो य कसायाणं, एयं धीराण सासणं ॥२॥"ति, अथवा 'आमुसंतेणं'ति आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि -"जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुतीमंतपयाभिसित्तं । एवायरीयं उवचिट्ठएज्जा, अणंतणाणोवगओऽवि संतो ॥१॥"त्ति, यद्वा 'आउसंतेणं'ति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित् , यत आह-"निद्दोविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥१॥" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः, स चाख्यातमित्यादिषु दर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्सदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः। अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा', नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभाव इति?, किश्च-शिष्योपदेशकत्वं त्वस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं
१ यथाऽऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेत अनन्तज्ञानोपगतोऽपि सन् ॥ १॥ २ परिवर्जितनिद्राविकथैर्गुप्तैः। प्रातलिपुटैः । भक्तिबहुमानपूर्वमुपयुक्तैः श्रोतव्यम् ॥ १॥
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org