________________
B
ROADCASSALONCERICA
सूतानां तु, न स्यादाप्तोपदिष्टता । विश्वासश्च न तासु स्यात्केनेमाः कीर्तिता इति ? ॥ १ ॥” समस्तपदसमुदायेन त्वामौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च वि-15 द्यादेरपि सफलता स्यादिति, यदुक्तम्-"भत्तीऍ जिणवराणं खिज्जती पुव्वसंचिया कम्मा। आयरियनमोक्कारेण विजा मंता य सिझंति ॥१॥"त्ति, नमस्कारश्च भक्तिरेवेति, अथवा 'आउसंतेणं'ति भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा 'आयुमते'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥” [यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत !। अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम् ॥२॥] एवं ह्यनुन्मूलितरागादिदोषत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति ?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-'आवसंतेणं ति मयेत्यस्य विशेषणं, तत आडिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च-"णाणस होइ भागी
१ भक्त्या ज़िनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । आचार्यनमस्कारेण विद्या मन्त्राश्च सिध्यन्ति ॥१॥ २ अशरीरत्वेन. ३ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलबासं न मुञ्चन्ति ॥१॥ गीतावासो रतिधर्मे अनायतनवर्जनम् । निग्रहश्च कषायाणामेतत् धीराणां शासनम् ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org