________________
श्रीस्थानाङ्गसूत्रवृत्तिः
१ स्थानाध्ययने १ सूत्रं
॥८॥
SECREENA
तस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्या पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यतः-"सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादी तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥” इति, “एव'मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा 'एव'मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, 'आख्यात'मित्यनेन तु नापौरुषेयवचनरूपमिदं, तस्यासम्भवादि-15 | त्याह, यत उक्तम्-"वेयवयणं न माणं अपोरुसेयंति' निम्मियं तम्मयं] जेण । इदमच्चंतविरुद्धं वयणं च अपोरुसेयं |च ॥१॥ जं वुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति । ता तस्सेवाभावो नियमेण अपोरुसेयत्ते ॥२॥” इति, अ-1
थवा आख्यातं भगवतेदं, न कुड्यादिनिःसृतं, यथा कैश्चिदभ्युपगम्यते-"तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदा|स्थिते । निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः॥१॥” इत्यस्यानेनानभ्युपगममाह, यतः–'कुड्यादिनिः१ वेदवचनं न मानमपौरुषेयमिति निर्मितं येन (तन्मतं येन) इदमयन्तविरुद्धं वचनं चापौरुषेयं च ॥१॥ यदुच्यते इति वचनं पुरुषाभावे तु नैतदेवमिति ।
X | तत् तस्यैवाभावो नियमेनापौरुषेयत्वे ॥२॥ २ न निम्मियं प्र.
॥८
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org