SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ BHASHAHABHARASHASASHA इत्याह, 'आयुष्मन्नित्यनेन तु कोमलवचोभिः शिष्यमनःप्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च-"धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो य मणं सीसं चोएइ आयरिओ॥१॥"त्ति । आयुष्मत्वाभिधानं चात्यन्तमालादक, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद् , यत उच्यते-'सवे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसि जीवियं पियं"ति, तथा-"तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः । जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् ॥ १ ॥” इति, अथवा 'आयुष्मन्नि'त्यनेन ग्रहणधारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थं सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्-"वुढेऽवि दोणमेहे न कण्हभूमाउ लोट्टए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिंमि ॥१॥" विपर्यये तु दोष इति, आह च-"आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिपि य हाणी पुट्ठावि न दुद्धदा वंझा ॥१॥” इति, तथा 'तेने त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणा पेक्षत्वाचनप्रामाण्यस्येति, 'भगवते'त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि ४ तथेति, अथवा 'तेणं'ति अनेनोपोद्घातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्ग-18 १धर्ममयैरतिसुन्दरैः कारणगुणोपनीतैः। प्रह्लादयश्च मनः शिष्यं नोदयत्याचार्यः॥१॥ २ सर्वे प्राणाः प्रियायुषोऽप्रियवधाः सुखाखादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् . ३ वृष्टेऽपि द्रोणमेघे न कृष्णभूमाल्लुठति उदकं । ग्रहणधारणसमर्थे एवं देयमच्छित्तिकारिणि ॥१॥ ४ आचार्ये सूत्रे च परिवादः सूत्रार्थविनः । अन्येषामपि च हानिः स्पृष्टाऽपि न दुग्धदा वन्ध्या ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy