________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
आयुर्निक्षे
युषा यशाकील्युषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति ॥ उक्तः सूत्रालापकनिष्पन्ननि- १ स्थानाक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रु
ध्ययने तम्-आकर्णितं 'मे' मया 'आउसंति आयुः-जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते वस्यासावायुमांस्तस्यामन्त्रणं हे आयुष्मन् !-शिष्य ! 'तेणं ति यः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याह
पासू०१ तवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादि
कालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इब घनघा४ तिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथ-3
मप्रवर्तितप्रवचनो जिनो महावीरस्तेन 'भगवता' अष्टमहापातिहार्यरूपसमग्रैश्वर्यादियुक्तेन 'एव'मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण 'आख्यात'मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा-समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितं आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत'मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् , उक्तश्च-"किं' एत्तो पावयरं? सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए कड्यरागमि पाडेइ ॥१॥"त्ति, 'मये'त्यननोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नार्गमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम
॥ ७॥ १ किमेतस्मात् कष्टकर ? सम्यग् अनधिगतसमयसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥१॥ २ मिनागमोऽयं प्र.
dan Education International
For Personal & Private Use Only
www.jainelibrary.org