SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सूत्रानुगमस्य तद्रूपत्वादिति, आह च-"होई कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो"त्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्त्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था-"जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य ण जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥१॥"त्ति, तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतं, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'आउसंति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा-"नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे य ६ भोगे य ७ । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णती दसहा ॥१॥” तत्र नामस्थापने क्षुण्णे 'दविए'त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाजीवितं द्रव्यजीवितं, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तब्भवे य'त्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमा KASARAGOSSAURAS '१ भवति च कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगम इति. २ यत्र तु यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् । यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र ॥१॥३ वाक्यनिक्षेपप्रस्तावे भाषानिक्षेपवदत्र आयुःप्रस्तावे जीवितनिक्षेप इत्यर्थः. dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy