________________
यज्ञदत्तश्रुतस्य था, तत्र चायादेवमुभयम
धनवदिति, अब मा श्रवणकाल एवं
सातवम्भूता नयाः,
वस्तुनो नित्यत्वं, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथचानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिर्नयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयो द्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तश्च–“सव्वं चिय पइसमयं उप्पजइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो ॥१॥" त्ति । उक्तः सूत्रस्पर्शिकनियुक्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पशिकनियुक्त्यनुगमनया उपदर्शिताः, आराधितञ्च सक्रम भाष्यकारवचनं, तद्यथा-"सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ति नया य समगं तु वच्चंति ॥१॥"त्ति, एतेषां चायं विषय उक्तो भाष्यकारेण-"होई कयत्थो वोत्तुं सपयच्छेयं सुअं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविनियोगं ॥१॥ सुत्तप्फासियनि
१°ताश्रयेण ॥ २ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च निसं च । एवमेव च सुखदुःखबन्धमोक्षादिसद्भावः ॥१॥ ३ सूत्र सूत्रानुगमः सूत्रालापककृतश्च का निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च समकमेव व्रजन्ति ॥१॥ ४ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियो
गम् ॥१॥ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org