________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
1186 11
लुप्पलसमा वनेणं पं० तं० — मुणिसुब्बए चेव अरिट्ठनेमी चेव दो तित्थयरा पियंगुसामा वन्नेणं पं० तं० मल्ली चेव पासे चेन, दो सित्थयरा पउमगोरा वनेणं पं० तं० परमप्पहे चेव वासुपुजे चैव दो तित्थगरा चंदगोरा बन्नेणं पं० तं०चंदप्पभे चैव पुष्पदंते चेव ( सू० १०८ ) 'दुविहे 'त्यादि सूत्रत्रयं कण्ठ्यं, नवरं मूर्च्छा- मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिः - वर्त्तनं रूपं प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया का, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति ॥ मूर्च्छापात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह - 'दुविहे 'त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरं आराधनमाराधना - ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण - श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः - साधवस्तेषामियं धार्मिकी सा चासावाराधना च धार्मिकाराधना, केवलिनां श्रुतावधिमनःपर्याय केवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मे' त्यादौ विषयभेदेनाराधनाभेद उक्तः, 'केवलि आराहणे त्यादौ तु फलभेदेंनेति, तत्र अन्तो भवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात् एषा च क्षायिकज्ञाने केवलिनामेव भवति । तथा 'कल्पेषु' देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः अथवा कल्पाश्च - सौधर्मादयो विमानानि च तदुपरिवर्त्तियैवेयकादीनि कल्पविमानानि तेषूपपत्तिः - उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोछा परम्परया तु भवान्तक्रियाऽनुपातिन्येवेति । ज्ञानाद्याराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थंकरास्तैर्वा सा
Jain Educationonal
For Personal & Private Use Only
२ स्थान
काध्ययने उद्देशः ४
सू० १०८
11 86 11
jainelibrary.org