________________
श्रीस्थाना
वृत्तिः
२ स्थानकाध्ययने उद्देशः४ सू० १०५
॥९७॥
कम्मं । तं पडिहारसमाणं दसणवरणं भवे जीवे ॥ १ ॥” इति, ‘एवं चेव'त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम् , सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति, तथा वेद्यते-अनु-13 भूयत इति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात् , इतरद्-एतद्विपरीतम् , आह च -"मीलित्तनिसियकरवालधार जीहाएँ जारिसं लिहणं । तारिसयं वेयणियं सुहदुहउप्पायगं मुणह ॥१॥” इति, मोहयतीति मोहनीयं, तथाहि-"जह मजपाणमूढो लोए पुरिसो परव्वसो होइ । तह मोहेणवि मूढो जीवो उ परव्वसो होइ॥१॥" इति, दर्शनं मोहयतीति दर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्रं-सामायिकादि मोहयति यत्कपाय १६ नोकषाय ९ भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपं च “दुक्खं न देइ आउं नविय सुहं देइ चउसुवि गईसुं । दुक्खसुहाणाहारं धरेइ देहट्ठियं जीयं ॥ १ ॥” इति । अद्धायु:-कायस्थितिरूपं, भावना तु प्राग्वत् , भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नमयति-परिणमयति यजीवं तन्नाम, एतत्स्वरूपं च 'जैह चित्तयरो निउणो अणेगरूवाई कुणइ रूवाई । सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं ॥१॥ तह नामंपिहु कम्मं अणेगरूवाइं कुणइ जीवस्स।
१ यत्कर्म । तत्प्रतीहारसमानं दर्शनावरणं भवेज्जीवे ॥१॥ २ मधुलिप्तनिशितकरवालधाराया जिह्वया यादृशं लिहनं । तादृशं वेदनीयं सुखदुःखोत्पादक जानीत ॥ १॥ ३ यथा मद्यपानमूढो लोके पुरुषः परवशो भवति । तथा मोहेनापि मूढो जीवश्च परवशो भवति ॥१॥ ४ दुःखं न ददात्यायुः नापि च सुखं | ददाति चतसृष्वपि गतिषु । दुःखसुखयोराधारं धारयति देहस्थितं जीवं ॥१॥ ५ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि । शोभनान्यशोभनानि चोक्षाण्यचोक्षाणि वर्णैः ॥१॥ तथा नामाप्येव कर्मानेकानि रूपाणि करोति जीवस्य ।
॥९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org