SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 'माणे'त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम् , आह च-"सरउग्गयससिनिम्मलयरस्स त जीवस्स छायणं जमिह । णाणावरणं कम्मं पडोवर्म होइ एवं तु ॥१॥" देश-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम् , सर्व ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाक-8 ल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च-"केवलणाणावरणं १ देसण छक्कं च मोहबारसगं । [अनन्तानुबन्ध्यादीत्यर्थः] ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥१॥"ति, अथवा देशोप-12 घातिसर्वोपघातिफडुकापेक्षया देशसर्वावरणत्वमस्य, यदाह-"मैतिसुयणाणावरणं दसणमोहं च तदुवघाईणि । तप्फडुगाई दुविहाई देससव्वोवघाईणि ॥ १ ॥ सव्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणंतेहिं ॥२॥ पढम लहइ नगारं एक्केक्कं वन्नमेवमन्नपि । कमसो विसुज्झमाणो लहइ समत्तं नमोकारं ॥३॥" इति, तथा दर्शनं-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयं, उक्तं च "दसणसीले जीवे दसणघायं करेइ जं १शरदुद्गतशशिनिर्मलतरस्य जीवस्याच्छादनं यदिह । ज्ञानावरणं कर्म पटोपमं भवत्येवमेव ॥१॥ २ केवलज्ञानावरणं दर्शनषटं च मोहद्वादशकं । ताः सर्वघातिसंज्ञाः भवंति मिथ्यात्वं विंशतितमं ॥१॥ ३ मतिश्रुतज्ञानावरणं दर्शनमोहश्च तदुपघातीनि । तत्स्पर्धकानि द्विविधानि देशसर्वोपघातीनि ॥१॥ सर्वेषु सर्वघातिषु हतेषु देशोपघातिनां च । भागैर्मुच्यमानः समये समयेऽनन्तैः ॥१॥ प्रथमं लभते नकार एकैकं वर्णमेवमन्यमपि । कमशो विशुज्यमानो लभते संपूर्ण नमस्कारं ॥१॥ ४ दर्शनशीले जीवे दर्शनघातं करोति स्था०१७ Jain Education For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy