________________
गुणिता यदिति गम्यते, दश कोटीकोव्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परिमाण - मिति ॥ एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिर्निरूप्यते तत्स्वरूपनिरूपणायाह
दुबिहे को पन्नत्ते तं० – आयपइट्ठिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादंसणसल्ले (सू० १००) । दुविहा संसारसमावन्नगा जीवा पं० तं० – तसा चैव थावरा चेव, दुविहा सव्वजीवा पं० तं०—सिद्धा चैव असिद्धा चैव, दुविहा सव्वजीवा पण्णत्ता तं० – सइंदिया चैव अनिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव - 'सिद्धसइंदियकाए जोगे वेए कसाय लेसा य । णाणुवओगाहारे भासग चरिमेय ससरीरी ॥ १ ॥' ( सू० १०१ )
आत्मापराधादैहिका पायदर्शनादात्मनि प्रतिष्ठितः - आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः - उदीरितः परस्मिन् वा प्रतिष्ठितो - जातः परप्रतिष्ठित इति । 'एव' मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्ड केनाध्येतव्यानि, अत एवाह - 'एवं जाव मिच्छादंसणसले त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्त्तिपरात्मवर्त्तिभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति । उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org