________________
२ स्थानकाध्ययने उद्देशः४ पल्योपमादिस्व० सू०९९
श्रीस्थाना- तयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव गसूत्र- प्रदेशा उद्रियन्ते स कालो व्यावहारिक इति, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्रियन्ते स कालः सूवृत्तिः लक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते,
बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्यैव ॥९१॥
चोपयोगित्वाद् अद्धेतिविशेषणं सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः-से किं तमित्यादि, अथ किं तत् पल्योपमं ?, यदद्धौपमिकतया निर्दिष्टमिति प्रश्ने निर्वचनमेतदनुवादेनाह–'पलिओवमें 'त्ति, पल्योपममेवं भवतीति वाक्यशेषः, 'जं' गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यंधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां-वृद्धानां मुण्डिते शिरसि एकेनाह्रा यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोव्यो-विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः-सङ्ख्याविशेषाः तासां किं भवेत् ? 'भरितं' भृतं, कथमित्याह-निरन्तर' निचितं निबि
डतया निचयवत्कृतमिति । 'वास' गाहा, एतस्मात्सल्याद्वर्षशते वर्षशतेऽतिक्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् & वालाग्रे असङ्ख्येयखण्डे चापहृते-उद्धृते सति 'यः कालो' यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह–'उपमा उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एकं पल्योपमं सूक्ष्म व्यावहारिक चोच्यत इति । 'एएसिं' गाहा, एतेषाम्-उक्तरूपाणां सूक्ष्मबादराणां 'पल्यानां पल्योपमानां कोटीकोटी भवेद् दश
Jain Education
M
o nal
For Personal & Private Use Only
Mw.jainelibrary.org