________________
स्था० १६
जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पलस्स ॥ २ ॥ एएसिं पलाणं कोडाकोडी हवेज्ज दसगुणिता । तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ ३ ॥ ( सू० ९९ )
उपमा - औपम्यं, तया निर्वृत्तमौपमिकं अद्धा - कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः तच्च द्विधा - पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्सल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्र सूक्ष्मपन कावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च - "उद्धा रसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥” इति, अद्धापल्योपमसागरोपमे अपि सूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासच्येयखण्डस्य चोद्धार इति, अनेन नारकादिस्थि१ उद्धारसागरोपमयोः सार्द्धद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रज्जुः ॥ १ ॥
Jain Educationonal
For Personal & Private Use Only
www.jainelibrary.org