SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ —एव'मित्यादि, ‘एवं मिति 'दोहिं ठाणेही त्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले 'सव्वेणवि'त्ति सबैरपि गेन्दुकगतिकाले शरीरं 'फुरित्ताणंति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनियाणकाले, सर्वतः-सर्व शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति ।स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह-एवं'मित्यादि, 'एवं मिति तथैव देशेन-आत्मदेशेन शरीरक 'फुडित्ताण ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरक देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्तास्फोटयित्वा विशीर्ण कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मक-II तया स्फुटीकुर्वैस्तत्संवर्त्तनमपि कश्चित्करोतीत्याह–'एव'मित्यादि, 'एव'मिति तथैव 'संवदृइत्ताणं'त्ति संवर्ध्व-सङ्कोच्या शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्ध्व-हस्तादिसङ्कोचनेन सर्वतः-सर्वशरीरस-31 कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तनं कुर्वन् शरीरस्य निवर्तनं करोतीत्याह-एवं 'निव्वदृयित्ताणं ति, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्कृत्येत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतो, अथवा देशतः शरीरं निर्व ात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम् Jain Edue For Personal & Private Use Only lainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy