________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ८९ ॥
स्तथा सूत्रत्रयेणाह - 'जीवे' त्यादि गतार्थम्, नवरं उदीरयन्ति - अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेन - अङ्गीकरणेन निर्वृत्ता तत्र वा भवां आभ्युपगमिकी तया - शिरोलोचतपश्चरणादिकया वेदनया - पीडया उपक्रमेण - कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया, 'एव' मिति उक्तप्रकारत एव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितं सदिति, 'निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति । निर्जरणे च कर्मणो देशतः सर्वथा वा भ वान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह
दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिज्जाति, तं० देसेणवि आता सरीरं फुसित्ताणं णिज्जाति सव्वेणवि आया सरीरगं फुसित्ताणं णिज्ज्ञाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवदृतित्ता एवं निव्वकृतित्ता ( सूत्रं ९७ )
- 'दोही' त्यादिकं कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवि'त्ति देशेनापि कतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात्, 'आत्मा' जीवः, 'शरीरं' देहं 'स्पृष्ट्वा' श्लिष्ट्वा 'निर्याति' शरीरान्मरणकाले निःसरतीति, 'सव्वेणवि'त्ति सर्वेण - सर्वात्मना सर्वैजींवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि - देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं, कोऽर्थः ? - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेश संहारान्निर्याति, स च संसारी, 'सर्वेणापि सर्वतयाऽपि, अपिर्देशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, स च सिद्धो वक्ष्यति च - " पायणिजाणा णिरएसु “उववज्जंती"त्यादि, यावत् " सव्वंगणिज्जाणा सिद्धेसु"त्ति । आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते
Jain Educationtemonal
For Personal & Private Use Only
२ स्थान
काध्ययने उद्देशः ४
॥ ८९ ॥
jainelibrary.org