SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अणुभागं कसायओ कुणइ "त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह - 'जीवाण' मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते - सामान्येन बन्धो द्वेधा - प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु बन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम् उक्तं च- "अप्पं बायर मंउयं बहुं च रुक्खं च सुक्किलं चेव । मंदं महव्वयं तिय सायाबहुलं च तं कम्मं ॥ १ ॥” इति, अल्पं स्थित्या बादरं परिणामतः मृद्वनुभावतः बहु प्रदेशः मन्दं लेपतो वालुकावत्, महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह - 'जीवा ण' मित्यादि, जीवाः सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्यां कारणाभ्यां पापम्-अशुभमशुभभवनिबन्धनत्वात् न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति - स्पृष्टाद्यवस्थां कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः तत्कथं कषाया एव इहोक्ता इति ?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थ, प्राधान्यं च स्थित्यनुभागप्रकर्ष कारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च – “को दुक्खं पावेज्जा कस्स व सोक्खेहिं विम्हओ होज्जा ? । को वा न लहेज मोक्खं ? रागद्दोसा जइ न होज्जा ॥ १ ॥” इति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिन १ तत्सयोगिकर्म अल्पं बादरं मृदु बहु रूक्षं शुभ्रं चैव मंदं महाव्ययं साताबहुलमिति ॥ १ ॥ २ को दुःखं प्राप्नुयात् कस्य वा सुखैर्विस्मयो भूयात् को न लभेत मोक्षं रागद्वेषा यदि न भवेतां ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy