________________
श्रीस्थानाप्रसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देश:४
आदित्यस्य, 'दोसिणाति वत्ति ज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानि-क्षेत्रादीनां प्रमाणानि हस्तादीनि उ- न्मानानि-तुलायाः कर्षादीनि, अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, अवलिंबा सणिप्पवाया य रूढितोऽवसेया इति, किमेतत् सर्वमित्याह-जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद्वा, 'अजीवा इति च' पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, प्रोच्यते-जिनैः प्ररूप्यत इति । इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति । अथ समयादिवस्तु जीवाजीवरूपमेव कस्मादभिधीयते ?, उच्यते, तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-'दो रासी'त्यादि कण्ठ्यम् । जीवराशिश्च द्विधा-बद्धमुक्तभेदात् , तत्र बद्धानां बन्धनिरूपणायाह
दुविहे बंधे पं०, तं०-पेजबंधे चेव दोसबंधे चेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं बंधंति, तं०-रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०-अब्भोवगमिताते चेव वेतणाते उवक्कमिताते चव वेयणाते, एवं वेदेति एवं णिजेरेति-अब्भोवगमिताते चेव वेयणाते उवक्कमिताते चेव वेयणाते (सूत्रं ९६) प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह-"माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनर्वृष इति समासनिर्दिष्टः॥१॥” इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकमपुद्गलराशेर्बन्धनं-जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थि|त्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, रक्तं हि,-"जोगा पयडिपदेसं ठिति
१ योगेभ्यः प्रकृतिप्रदेशबन्धं कषायेभ्यः स्थित्यनुभागबंध करोति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org