________________
श्रीस्थाना-I
सूत्रवृत्तिः ।
॥८३॥
चित्रकूटपझकूटवक्षस्कारपर्वतयोरन्तरे नीलवर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गताऽष्टा- ४२ स्थानविंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोविभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयो- & काध्ययने ईयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्याः, तद्वित्त्वं च पूर्ववदिति, पङ्कव- उद्देशः३ तीत्यत्र वेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि वनानि-"भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माइं । नंदणसोमणसाइं पंडगपरिमंडियं सिहरं ॥१॥” इति वचनात् , मेर्वोर्द्वित्वे च वनाना द्वित्वमिति, शिलाश्चतस्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे-"पंडेंगवणंमि चउरो सिलाउ चउसुवि दिसासु चूलाए । चउजोयणउस्सियाओ सव्वजुणकंचणमयाओ॥१॥ पंचसयायामाओ मज्झे दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ ॥२॥" इति, मन्दरे-मेरौ मेरुचूलिका-शिखरविशेषः, स्वरूपमस्याः-"मेरुस उवरि चूला जिणभवणविहूसिया दुवी(४०)सुच्चा ।
१ भूमौ भद्रशालं मेखलायुगले द्वे रम्ये नन्दनसौमनसे पाण्डुकप रिमण्डितं शिखरम् ॥१॥ २ पाण्डुकवने चतस्रः शिलाश्चतसृष्वपि दिक्षु चूलायाः । चतुर्योजनोच्छ्रिताः सर्वार्जुनकाञ्चनमय्यः ॥१॥ पञ्चशतायामा मध्ये दीर्घत्वार्धपृथुलाः । अर्धचन्द्रसंस्थिताः कुमुदोदरहारगौराः ॥२॥ ३ कुम्मो० । कुसुमोव०. ४ मेरोरुपरि चूला जिनभवनभूषिता चत्वारिंशत् उचा।
Join Education International
For Personal & Private Use Only
www.jainelibrary.org