SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ धरपर्वताः शब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तैवताढ्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां द्वयेन द्वयेन सहिताः क्रमेण द्वौ द्वावुक्तौ, 'दो मालवंत'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौ गजदन्तकौ स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकुलवर्तिनौ दक्षिणोत्तरायती चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक् शीतादक्षिणकूलवत्तीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसौ देवकुरुपूर्वदिग्वर्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भागवर्तिनौ विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवत्तींनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूवार्द्ध पश्चिमाद्धे |च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति, 'दो चुल्लहिमवंतकूडा' इत्यादि, हिमवदादयः पडू वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो दे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौ स्युरित्याह-दो गंगापवायहहे'त्यादि, 'दो रो|हियाओ' इत्यादौ नद्यधिकारे गङ्गादीनां सदपि द्वित्त्वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य-"महाहिमवंताओ वासहरपब्बयाओ महापउमद्दहाओ दो महानदीओ पवहंती"त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टौ श्रूयन्त इति, dan Education For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy