SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ २ स्थानकाध्ययने उद्देशः ३ श्रीस्थाना-भिलापेन वाच्यमित्याह-'जाव दोसु वासेसु मणुए'त्यादि, एतस्माद्धि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां गसूत्र- सूत्राण्यधीतानि तानि च धातकीखण्डपुष्करार्द्धपूर्वार्द्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, वृत्तिः धातकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह च-"दो' चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूरा य ॥१॥” इति चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्त्वं न स्यात् ततो द्विस्थानकेऽनवतार ॥८२॥ इति । जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह-णवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, कुरुसूत्रानन्तरं तत्र 'कूडसामली चेव जंबू चेव सुदंसणे ति उक्तमिह तु जम्बूस्थाने 'धायहरुक्खे चेव'त्ति वक्तव्यम् , प्रमाणं च तयोर्जम्बूद्वीपकशाल्मल्यादिवत् , तयोरेव देवसूत्रे 'अणाढिए चेव जंबुद्दीवाहिवई'त्यत्र वक्तव्ये 'सुदंसणे चेव'त्तीह वक्तव्यमिति। 'धायइसंडे दीवे इत्यादि पश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम् , अत एवाह-'जाव छव्विहंपि काल'मित्यादि, विशेषमाह-'णवरं कूडसामली'त्यादि, धातकीखण्डपूर्वार्धोत्तरकुरुषु धातकीवृक्ष उक्त इह तु महाधातकीवृक्षोऽध्येतव्यः, देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीतः इह तु प्रियदर्शनोऽध्येतव्य इति, पूवार्द्धपश्चिमार्द्धमीलनेन धातकीखण्डद्वीपं सम्पूर्णमाश्रित्य द्विस्थानकं 'धायइसंडे 'मित्यादिनाह-द्वे भरते पूर्वार्द्धपश्चार्द्धयोर्यद्दक्षिणदिग्भागे तयोर्भावादित्येवं सर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, 'दो देवकुरुमहादुमेति द्वौ कूटशाल्मलीवृक्षावित्यर्थः द्वौ तद्वासिदेवौ वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहदुमति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड् वर्ष १ द्वौ चंद्राविह द्वीपे चत्वारश्च सागरे लवणतोये धातकीखंडे द्वीपे द्वादश चंद्राश्च सूर्याश्च ॥१॥ ॥८२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy