SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ७५ ॥ प्रविशति स रोहितांशाप्रपातहूद इति । 'जंबू' इत्यादि, 'हरिप्पवायद्दहे चेव त्ति हरिन्नदी प्रागुक्तलक्षणा यत्र निपतति | यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेपेण यस्य च मध्यभागे हरिद्देवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो हरिद्देवताभवनभूषितोपरितनभागोऽसौ हरिप्रपातहूद इति । 'हरिकंतप्पवायद्दहे चेव'त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहद इति । 'जंबू' इत्यादि, 'सीयप्पवायद्दहे चेव'त्ति यत्र नीलवतः शीता निपतति यश्च चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्विीपश्चतुःषष्टियोजनायामविष्कम्भो व्ह्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहद इति, 'सीतोदप्पवायद्दहे चेव'त्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहूदः शीताप्रपात हदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति । 'जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातहदौ च हरिकान्ताहरिप्रपात हदसमानौ स्वसमाननामद्वीपदेविकाविति । 'एव' मित्यादि, सुवर्णकूलारूप्यकूलाप्रपातहृदो रोहितांशारो हिमपात हदसमानवक्तव्यौ, विशेषस्तूह्य इति । 'जंबू' इत्यादि रक्तारक्तवतीप्रपातहदौ गङ्गासिन्धुप्रपात हदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति । 'जंबू' इत्यादि 'जंबुद्दीवे २ मंदरस्स दाहिणेणं भरहे वासे दो महानदीओ' इत्यादि, 'एव' मिति अनन्तरक्रमेण 'जह'त्ति यथा पूर्व वर्षे २ द्वौ द्वौ प्रपातइदावुक्तौ एवं नद्यो वाच्याः, Jain Education International For Personal & Private Use Only २ स्थानकाध्ययने उद्देशः ३ हृदनद्यादिस्वरूपं 11 19'1⁄2 11 www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy