________________
रभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्ररापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताठ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिनंदीसहस्रः समग्रा मुखे सार्द्धद्विषष्टियोजनवि
कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातहूदो|ऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात् , तासां हि एकैकस्मात् पर्वतात् त्रयं वयं प्रवहतीति द्विस्थानके नावतार इति । 'एवं'|मित्यादि, एवमिति प्राग्वत् 'रोहियप्पवायदहे चेव'त्ति रोहिद्-उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिक योजनशतमा
यामविष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्द्वीपः षोडशयोजनाया|मविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनस-8 मानेन विभूषितोपरितनभागः स रोहित्प्रपातहूद इति । 'रोहियंसप्पवायद्दहे चेव'त्ति हिमवर्षधरपर्वतोपरिवर्तिपद्मह्रदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेक उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजन विष्कम्भया क्रोशबाहल्यया जिबिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहित्पातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रोहिद्द्वीपसमानमान: रोहितांशाभवनेन प्रागुक्तमानेनालङ्कतः, यतश्च रोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org