________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ७४ ॥
शीता महानदी केसरिहृदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य रम्यकवर्ष विभजन्ती हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापर समुद्रं प्रविशतीति । 'एव' मित्यादि, नरकान्ता महापुण्डरीकहदाद्दक्षिणतोरणेन विनिर्गत्य रम्यकवर्षे विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वर्ष विभजन्ती रोहिन्नदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति । 'जंबू' इत्यादि, 'पवायद्दह' त्ति प्रपतनं प्रपातस्तदुपलक्षितौ हदौ प्रपातहूदौ, इह यत्र हिमवदादेर्नगात् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहूद इति, प्रपातकुण्डमित्यर्थः, 'गंगापवायद्दहे चेव'त्ति हिमवद्वर्षधर पर्वतोपरिवर्त्तिपद्मइदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पश्च योजनशतानि गत्वा गङ्गावर्त्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशषड्योजन विष्कम्भयाऽर्धक्रोशबाहल्यया जिह्विकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो नानामणिनिबद्धः यस्य च पूर्वापरदक्षिणा त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाः मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो वज्रमयो गङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्कम्भेन किञ्चिदूनक्रोशो चेनानेकस्तम्भशतसन्नि विष्टेनालङ्कृतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड्योजन विष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्त
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३
हृदनद्यादिस्वरूपं
॥ ७४ ॥
www.jainelibrary.org