SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ६८ ॥ पृष्ठप्रमाणं त्विदम्- 'चोदस य सहस्साई पंचैव सयाई अटुंबीसाई । एगारस य कलाओ धणुपुढं उत्तरद्धस्स ॥ १ ॥' १४५२८ । यथा च भरतस्यैरवतस्यापि तथैवेति । एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति, उक्तं च -"अनुवादादर वीप्सा भृशार्थविनियोग हेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ १ ॥” इति, तद्यथा, 'भरहे चेवेत्यादि, 'उत्तरदाहिणेणं' त्येतस्य पाठस्य यथासङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, 'एव' मिति भरतैरवतवत् 'एतेनाभिलापेन' 'जंबूद्दीवे दीवे मंदरस्से' त्यादिना उच्चारणेनापरं सूत्रद्वयं वाच्यं तयोश्चायं विशेषः - 'हेमवए चेवे' त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्षे चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे' इत्यादि, 'पुरच्छिमपचत्थिमेणं'ति पुरस्तात् - पूर्वस्यां दिशि पश्चात् - पश्चिमायामित्यर्थः यथाक्रमं पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपर विदेह इति एतेषां चायामादि ग्रन्थान्तरादवसेयमिति । 'जंबू' इत्यादि, दक्षिणेन देवकुरवः उत्तरेण उत्तरकुरवः, तत्र आद्या विद्युत्प्रभ सौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवन्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्- 'अट्ठसया बायाला एक्कारस सहस दो कलाओ य | विक्खंभो य कुरूणं ते १ चतुर्द्दश सहस्राणि पंचैव शतानि अष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठं उत्तरार्द्धस्य. १४५२८ - ११ धनुःपृष्ठं २ एकादश सहस्राणि अष्ट शतानि द्विचत्वारिंशदधिकानि द्वे कले च विष्कम्भस्तु देवकुरूणां त्रिपंचाशत्सहस्राणि जीवाऽनयोः ॥ १ ॥ १२८४२-२ विष्कम्भः ५३००० जीवा. Jain Education International For Personal & Private Use Only २ स्थान काध्ययने उद्देशः ३ भरतादि क्षेत्रस्व० ॥ ६८ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy