SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ वन्नसहस्स जीवा सिं ॥ १ ॥” पूर्वापरायामाचैता इति, 'महइमहालय'त्ति महान्तौ गुरू 'अती'ति अत्यन्तं महसां - तेजसां महानां वा उत्सवानामालयौ - आश्रयौ महातिमहआलयो महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो- दैर्घ्यं विष्कम्भो - विस्तारः उच्चत्वम् - उच्छ्रयः उद्वेधो - भुवि प्रवेशः संस्थानम् - आकारः परिणाहः - परिधिरिति, तत्रानयोः प्रमाणम् – “श्यणमया पुप्फफला विक्खंभो अट्ठ अट्ठ उच्चत्तं । जोयणमडुव्वेहो खंधो दोजोयणुव्विद्धो ॥ १ ॥ दो कोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए । चाउद्दिसिंपि साला पुव्विल्ले तत्थ सालंमि ॥ २ ॥ भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥ ३ ॥” इति | शाल्मल्यामप्येवमेवेति, कूटाकारा - शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्ठु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तत्थ'त्ति तयोर्महाद्रुमयोः 'महे'त्यादि महती ऋद्धि: - आवासपरिवाररत्नादिका ययोस्तौ महद्धिको यावद्ग्रहणात् 'महज्जुइया महाणुभागा महायसा महाबल'त्ति, तत्र द्युतिः- शरीराभरणदीप्तिः अनुभागः - अचिन्त्या शक्तिवैक्रियकरणादिका यशः - ख्यातिः बलं - सामर्थ्य शरीरस्य सौख्यम् - आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, म हेशौ - महेश्वरावित्याख्या ययोस्तौ मेहशाख्याविति, पल्योपमं यावत् स्थितिः - आयुर्ययोस्तौ तथा । गरुडः - सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ॥ १ रत्नमयानि पुष्पफलानि अष्ट विष्कम्भोऽष्ट उच्चत्वं अर्द्धयोजनमुद्वेधः स्कन्धो द्वियोजनोद्वेधः ॥ १ ॥ क्रोशद्वयं विस्तीर्णो विटपो जम्ब्वाः शाखा षट् योजनाः चतुर्दिशमपि शाला: पौरस्त्यां तत्र शालायां ॥ २ ॥ भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य तिसृषु प्रासादाः शालासु तासु सिंहासनानि रम्याणि ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy