SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ वर्षाणि च स्थापयित्वा, तद्यथा,-'भरहं हेमवयंति य हरिवासंति य महाविदेहति । रम्मय एरनवयं एरवयं चेव वासाई ॥१॥' ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-'हिमवंत १ महाहिमवंत २ पव्वया निसढ ३ नीलवंता य ४ । रुप्पी ५ सिहरी ६ एए वासहरगिरी मुणेयव्वा ॥१॥ इति सर्वमवबोद्धव्यमिति । मन्दरस्यमेरोः उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे-क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः अविशेषे-अविलक्षणे नगनगरनद्यादिकृतविशेषरहिते अनानात्वे-अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह-'अन्योऽन्यं परस्परं नातिवर्तेते, इतरेतरं न लग्यत इत्यर्थः, कैरित्याह-'आयामेन' दैर्येण 'विष्कम्भेन' पृथुत्वेन 'संस्थानेन' आरोपितज्याधनुराकारेण 'परिणाहेन' परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं 'चोईस य सहस्साई सयाइँ चत्तारि एगसयराई । भरहदुत्तरजीवा छा य कला ऊणिया किंचि ॥१॥' कला च योजनस्यैकोनविंशतितमो भाग इति १४४७१,३६, एरवतेऽप्येवं । तथा अविशेषे विष्कम्भतः, तथाहि-पंच सए छब्बीसे छच्च कला वित्थडं भरहवासंति, ५२६, अयमेव चैरवतस्यापीति, अनानात्वे संस्थानतः अन्योऽन्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यप्रमाणं, तत्र ज्याप्रमाणमुक्तं, धनु: भरतं हैमवतं हरिव महाविदेहमिति च । रम्यगैरण्यवर्त ऐरवतं चैव वर्षाणि ॥ १॥ हिमवादाचा वर्षधरगिरय एतें २ चतुर्दश सहस्राणि चत्वारि शतानि | एकसप्तत्यधिकानि भरतार्होत्तरजीवा षद्ध कला ऊनाः किंचित् ॥१॥३ पंच शतानि षड्विंशत्यधिकानि षटुला विस्तरं भरतवर्षे. ५२६-६-विस्तारः. .. dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy