________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ६५ ॥
२ स्थानकाध्ययने
उद्देशः ३
चाराः प्र
तिमा सा
तिमा, व्युत्सर्गप्रतिभा - कायोत्सर्गकरणमेवेति, भद्रा - पूर्वादिदिकूचतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोचेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्र कायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति, मोकप्रतिमाप्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे - "खुड्डियं णं मोयपडिमं पडिव - ४ ज्ञानाद्याण्णस्से "त्यादि, इयं च द्रव्यतः प्रस्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याद्युपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र ४ मायिकं च इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवल - - वृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिन मेकैकहान्याऽमावास्यायामेकमेव यस्यां भुङ्क्ते सा यवमध्या चन्द्रप्रतिमेति यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकं शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ॥ प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह - 'दुविहे' इत्यादि, समानां - ज्ञानादीनामायो - लाभः समायः स एव सामायिकमिति, तद् द्विविधम्- अगारवदनगारस्वामिभेदाद्, देशसर्वविरती इत्यर्थः ॥ जीवधर्माधिकार एव तद्धर्मान्तराणि 'दोन्हं उबवाएं' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह -
Jain Education International
For Personal & Private Use Only
॥ ६५ ॥
www.jainelibrary.org