SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ द्वादशसूत्र्या निरूपयन्नाह - 'दुविहे 'त्यादि, भिन्नाः - विचटिता इतरे त्वभिन्नाः १ स्वयमेव भिद्यत इति भिदुरं भिदुरत्वं धर्मो येषां ते भिदुरधर्माण: अन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीत एवेति २ परमाश्च ते अणवश्चेति परमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पश्चादयश्च स्पर्शास्ते चौदारिकादयः ४ पार्श्वेन स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टा - स्ततो बद्धा: - गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च - " पुढं रेणुं व तणुंमि बद्धमप्पीकयं पएसेहिं'ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्- "पुढं सुणेइ सद्दं रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ १॥ त्ति, उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५ 'परियाइय'त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा - सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६ आत्ताः- गृहीताः स्वीकृता जीवेन परिग्रहमा - त्रतया शरीरादितया वा ७ इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८ कान्ताः - कमनीया विशिष्टवर्णादियुक्ताः ९ प्रियाः- प्रीतिकराः इन्द्रियाह्लादकाः १० मनसा ज्ञायन्ते शोभना एत इत्येवंविकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः ११ मनसो मता - वलभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति, व्याख्यानान्तरं त्वेवं१ स्पृष्टं रेणुवत्तनौ बद्धमात्मीकृतं प्रदेशः २ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy