________________
वितते चेव, तते दुविहे पं० तं० -घणे चेत्र झुसिरे चेव, एवं विततेऽवि, णोआउज्जसद्दे दुविहे पं० तं० - भूसणसद्दे चेव नोभूसणसद्दे चेव, णोभूसणस दुविहे पं० तं० – तालसद्दे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं समुप्पाते सिया, तंजहा - साहनंताण चेव पुग्गलाणं सहुप्पाए सिया भिज्जंताण चेव पोग्गलाणं सहुप्पाए सिया ( सू० ८१ )
अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - इहानन्तरोदेशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्त्वितर इति २, आतोद्यं - पटहादि तस्य यः शब्दः स तथा नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्रीवर्धादिवद्धमातोद्यं, ४ तच्च किञ्चिद् घनं यथा पिञ्जनिकादि किञ्चिच्छुषिरं यथा वीणापटहादिकं तज्जनितः शब्दस्ततो घनः शुषिरश्चेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते—ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांश्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥' इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूषणं नुपूरादि नोभूषणं भूषणादन्यत् ७, तालो - हस्ततालः, 'लत्तिय'त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा 'लत्तियासदे' त्ति पा प्रिहारशब्दः ८ ॥ उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह - 'दोही' त्यादि, द्वाभ्यां 'स्थानाभ्यां' कारणाभ्यां शब्दोत्पादः स्याद्-भवेत् ८, 'संहन्यमानानां च ' सङ्घातमापद्यमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्, पञ्चम्यर्थे वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org