________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ६० ॥
द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्ञयसंज्ञितया वाच्याः, दण्डकावसानमाह - 'जाव वैमाणिय'त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् 'जाव वाणवंतरियत्ति पाठस्तत्रायमर्थो - येऽसंज्ञिभ्यो नारकादितयोलद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूपद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९, भाषादण्डके भाषका - भाषापर्यायुदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह- 'एव' मित्यादि १०, सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्- 'एगिंदियवज्जा सव्वे 'त्ति ११, संसारदण्डके परीत्तसंसारिकाः - सङ्क्षिप्तभवा इतरे त्वितरे १२, स्थितिदण्डके कालः कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमयः सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा सङ्ख्येयकालसमया सा स्थितिः - अवस्थानं येषां ते सङ्ख्येयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्ख्येयभागादिस्थितयः, 'संखिज्जकालठिइय'त्ति क्वचित्पाठः, स च सुगम एवेति, 'एव' मिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि ?, नेत्याह-पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति ? – एकेन्द्रियवि कलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सयातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तराः व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति १३, बोधिदण्डके बोधिः - जिनधर्म्मः ( प्राप्ति) सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः - अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः,
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः २
नारकाणा भव्यत्वादि
॥ ६० ॥
www.jainelibrary.org