________________
श्रीस्थाना
गसूत्रवृत्तिः
उक्तं च-"पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥१॥" ति, तपः- कर्म-निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६, सप्तदशं सूत्रं साक्षादेवाह-'दो दिसे त्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण'त्ति जोषणा-सेवा तया तल्लक्षणधर्मेणेत्यर्थः "जूसियाण'न्ति सेवितानां, तयुक्तानामित्यर्थः, तया वा 'झोषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां, पादपवदुपगतानाम्-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, 'कालं' मरणकालमनवकासतां-तत्रानुत्सुकानां विहर्नु-स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तत्सुगमत्वादिति ॥ द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥
२ स्थानकाध्ययने उद्देशः१ प्रवज्यादिपुदिशे
॥ ५७॥
इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्य-| नेन सम्बन्धेन आयातस्यास्योद्देकशस्येदमादिसूत्रम्
जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं १ पापं छिनत्ति यस्मात् पापच्छित्तु भण्यते तस्मात् । प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तं ॥१॥
SEARNERSHRSS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org