SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ त्यर्थः, 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः, उक्तं च- "पुव्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेजा । जाए जिणादओ वा हवेज्ज जिणचेइयाई वा ॥ १ ॥” इति ॥ 'एव' मिति यथा प्रत्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेचं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचनेन १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः - अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुदेष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विद - मिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति ९, प्रतिक्रमितुं - प्रतिक्रमणं कर्त्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च"सेचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च - " गैरहाऽवि तहाजातीयमेव नवरं परप्पयासणए "त्ति १२, 'विउत्तिए 'त्ति व्यतिवर्त्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्धं विच्छेदयितुमित्यर्थः १३, विशोधयितुमति चारपङ्कापेक्षयाऽऽत्मानं विमलीकर्त्तुमिति १४, अकरणतया - पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं, १ पूर्वमुखो वोत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा भवेयुर्जिनचैत्यानि वा ॥ १ ॥ २ स्वचरितपश्चात्तापो निन्दा, ३ गऽपि तथाजातीयैव नवरं परस्मै प्रकाशनम्, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy