________________
सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेंति अन्नत्थगतावि एगतिया वेअणं वेदेंति, जेरइया सत्ता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेंति, जाव पंचेंदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवज्जा सेसा एकगमा || ( सू० ७७ )
'जे देवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः - प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं | केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह - 'जे देवें' त्यादि, ये देवाः सुराः वक्ष्यमाणविशेषणेभ्यो | वैमानिका अनशनादेरुत्पन्नाः किंभूताः - 'उद्धत्ति ऊर्द्धलोकस्तत्रोपपन्नकाः - उत्पन्ना ऊवोपपन्नकास्ते च द्विधा - कल्पो|पपन्नकाः- सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः – मैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः तथा परे 'चारोववन्नग' त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो - ज्योतिश्चक्रक्षेत्रं समस्तमेव व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाश्चारोपपन्नकाः - ज्योतिष्काः, न च पादपोपगमनादेर्ज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि - चारे - ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः - समयक्षेबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयो sपि भवन्तीत्यत आह-गतिं गमनं समिति - सन्ततमापन्नकाः - प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा-नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि, सततबन्धकत्वात् जीवानां,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org